श्री महागणपतेय नमः

ॐ भूर्भुवः स्वः तत्सवितुर्वरेण्यम्‌ भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात्‌॥
ओंकारं बिन्दुसंयुक्तं नित्यं ध्यायन्ति योगिनः। कामदं मोक्षदं चैव ओंकाराय नमो नमः॥
ॐ गणानां त्वा गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमम्‌। ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आ नः श्रृण्वन्नूतिभिः सीदसादनम्‌॥
वक्रतुंड महाकाय कोटिसूर्यसमप्रभ। निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा॥

गजाननं भूतगणादिसेवितं कपित्थजंबूफलसारभक्षितम्‌। उमासुतं शोकविनाशकारणं नमामि विघ्नेश्वरपादपङ्कजम्‌॥
सुमुखश्चैकदंतश्च कपिलो गजकर्णकः। लम्बोदरश्च विकटो विघ्ननाशो गणाधिपः। धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः।
द्वादशैतानि नामानि यः पठेच्छृणुयादपि। विद्यारंभे विवाहे च प्रवेशे निर्गमे तथा। संग्रामे संकटे चैव विघ्नस्तस्य न जायते॥

प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम्‌। भक्‍तावासं स्मरेन्नित्यं आयुःकामार्थसिद्धये॥
अगजाननपद्मार्कं गजाननमहर्निशम्‌। अनेकदन्तं भक्तानां एकदन्तमुपास्महे॥
गजवक्त्रं सुरश्रेष्ठं कर्णचामरभूषितम्‌। पाशांकुशधरं देवं वन्देऽहं गणनायकम्‌॥

एकदंतं महाकायं तप्तकाञ्चनसन्निभम्‌। लंबोदरं विशालाक्षं वन्देऽहं गणनायकम्‌॥
गजवदनमचिन्त्यं तीक्ष्णदंष्ट्रं त्रिनेत्रं बृहदुदरमशेषं भूतिराजं पुराणम्‌। अमरवर-सुपूज्यं रक्तवर्णं सुरेशं पशुपतिसुतमीशं विघ्नराजं नमामि॥

कार्यं मे सिद्धिमायातु प्रसन्ने त्वयि धातरि। विघ्नानि नाशमायान्तु सर्वाणि सुरनायक॥
मूषिकवाहन् मोदकहस्त चामरकर्ण विलम्बित सूत्र। वामनरूप महेश्वरपुत्र विघ्नविनायक पाद नमस्ते॥
एकदंताय विद्महे। वक्रतुंडाय धीमहि। तन्नो दंती प्रचोदयात्‌॥

श्री गणेश फोटो

टिप्पण्या